पूर्वम्: ५।१।१०१
अनन्तरम्: ५।१।१०३
सूत्रम्
कर्मण उकञ्॥
५।१।१०२
काशिका-वृत्तिः
कर्मण उकञ्
५।१।१०३
कर्मन्शब्दा उकञ् प्रत्ययो भवति तस्मै प्रभवति इत्येतस्मिन्नर्थे। ठञो ऽपवादः। कर्मणे प्रभवति कार्मुकं धनुः। धनुषो ऽन्यत्र न भवति, अनभिधानात्।
न्यासः
कर्मण उकञ्?।
, ५।१।१०२
बाल-मनोरमा
कर्मण उकञ्
१७४४, ५।१।१०२
कर्मण उकञ्। "चतुथ्र्यन्तात्प्रभवतीत्यर्थे" इति शेषः। कार्मुकमिति। उकञि टिलोपः।